चर्चा- अध्ययनम्। तत्र पाणिनीयसूत्रे - चिन्ति पूजि कथि कुम्बि चर्चश्च। एभ्योङ् स्त्रियां भावादौ। चिति- स्मृत्याम्। पूजि- पूजायाम्। कथि-वाक्यप्रबन्धे। कुबि- आच्छादने। चर्च- अध्ययने। चुरादय इति। अष्टाध्यायीसूत्रे- ताल्वोष्ठपुटव्यापारेण शब्दस्य श्रवणं क्रियते सा चर्चा। तदध्ययनस्य श्रावको गुरुः। तस्य चर्चकः शिष्यः। श्रवणीयपारः श्रवणीयो वेदः, तस्य पारः- समाप्तिः। इति चतुष्पदेन अध्ययनं सूचितम्।

अग्रे चतुष्पदेन चत्वारि पारायणानि सूचयति। तत्पारायणं द्विविधं, प्रकृति विकृतिरूपम्। का प्रकृतिः? का विकृतिः?।

प्रकृतिः संहिता। सा द्विविधा। रूढा, योगा च। 1) रूढा यथा- अग्निमीळे पुरोहितम् - इति। 2) योगा यथा- अग्निमीळे । ईळे पुरोहितम् (2)। इति प्रातिशाख्ये द्वितीयपटले भाष्यकारेण व्याख्यातम्।। 5।।

अथ चतुष्पारायणं यथा-