दूरीकृत सीतार्तिः प्रकटी कृत राम वैभवस्फूर्तिः।

दारित दशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः।। 96

यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम्।

बाष्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम्।। 97

मनोजवं मारुततुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि।। 98

बुद्धिर्बलं यशोधैर्यं निर्भयत्व मरोगता।

अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत्।। 99