बालश्च तरुणो भक्तो वीरश्शक्तिर् द्विजस्तथा। 1 (6)

द्वात्रिंशरूपो भगवान् गणेशः कुरुते शुभम्।।

सिद्धि-रुच्छिष्ट-विघ्नश्च क्षिप्रो हेरंब एव च।। 2 (5)

द्वात्रिंशरूपो भगवान् गणेशः कुरुते शुभम्।।

लक्ष्मीर् महांश्च विजयो नृत्य-न्नूर्ध्वो गणेश्वरः। 3 (5)

द्वात्रिंशरूपो भगवान् गणेशः कुरुते शुभम्।।

एकाक्षरो वरश्चापि त्र्यक्षरश्च गणेश्वरः। 4 (3)

द्वात्रिंशरूपो भगवान् गणेशः कुरुते शुभम्।।

क्षिप्र प्रसादो हारिद्र एकदंतो गणेश्वरः। 5 (3)

द्वात्रिंशरूपो भगवान् गणेशः कुरुते शुभम्।।

एष वै सृष्टि.रुद्दंड ऋणमोचन एव नः। 6 (3)

द्वात्रिंशरूपो भगवान् गणेशः कुरुते शुभम्।।

ढुंढिर् द्विमुख रूपश्च त्रिमुख.स्सिंह रूपवान्। 7 (4)

द्वात्रिंशरूपो भगवान् गणेशः कुरुते शुभम्।।

योगो दुर्गो गणाधीश-स्संकष्टहर एव नः।। 8 (3)