Go Seva - Sankalpa

गो सेवा सङ्कल्पः

1. परमेश्वरमुद्दिश्य

2. श्रीपरमेश्वर प्रीत्यर्थम्

3.  (स्त्रियः)  .... नक्षत्रे .... राशौ जातायाः

5. ... गोत्रायाः

6. ... नाम्न्याः

-----

(पुरुषस्य वचनम्)  .... नक्षत्रे .... राशौ जातस्य

5. ... सगोत्रस्य

6. ... नामधेयस्य,

7. मम (कुमारस्य/ कुमार्याः/ मातुः/ पितुः/ भ्रातुः/ स्वसुः/ सख्युः/ गुरोः)

8. आयुष्याभिवृद्धये,

9. सर्वारिष्टपरिहारद्वारा निरामयता सिद्धये

10.चिरतर धर्मकर्मानुष्ठान सिद्धये, सर्वप्राणिषु दयाबुद्धिवृद्धये

11. धर्मार्थ काममोक्ष चतुर्विध फलपुरुषार्थ सिद्धये, अद्य शुभतिथौ

12.मम (अस्याः/ अस्य) जन्म दिन शुभावसरे

13 .गोमात्रे यथाशक्ति ग्रासादिकं समर्पये।।

14. नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।।

गोसेवा प्रार्थनमन्त्राः

माता वसूनां किल रुद्रपुत्री स्वसा श्रुता(आ)दित्य गणस्य या वै।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    1

गावो जनन्यः पयसां प्रदात्र्यो जगद्धितायैव चरन्ति यासाम्।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    2

प्रातश्च सायं परि दुह्यते या वत्सस्य नॄणां परिरक्षणाय।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    3

यतो(अ)ग्निहोत्रं समनुष्ठितं स्याद्- यतो(अ)भिषेकः पचनं प्रपाणम्।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    4

गोष्ठे प्रसद्या.दथ गोचरेषु चञ्चूर्यमाणाहननीयगात्रा।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    5

यस्या ध्वनि.स्स्या.दृषभस्वरेषु  यामाश्रिताः पितर.स्तृप्णुवन्ति।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    6

दोषान् समस्तान् परिहर्तुकाम-स्सेवेय भक्तिश्रितबुद्धितो याम्।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    7

दयां समस्ते परिवर्धयन्ती कुलस्य मे शोभितमुच्छ्रयन्ती।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।।    8

अनेन वेदोक्त-आयुष्याभिवृद्धिरस्तु। सर्वं सम्पूर्णम्।।  गोदेवता प्रीयताम्। श्रीपरमेश्वरार्पणमस्तु