मनुष्यगन्धदोष निवारणम्

तपश्चर्याप्रभावेण देवत्वं प्राप्य मानवाः। ऋभुनाम्ना प्रसिध्यन्ते प्रजापतिवशा उत।।

अग्नीन्द्रविश्वदेवैस्तु सोमपीथे निराकृताः। प्रचोदकेन गुरुणा सवित्रा प्रेरितस्स्वयम्।

तदोभयत एतेषां पपौ सोमं प्रजापतिः। प्राप्तैव.मृभुदेवेभिर्- देवैश्च सधमादता।

मनुष्यागन्धात् किञ्चामी अबीभत्सन्त कारणात्। तन्मर्त्यगन्धदोषाप-नयनाय यतेमहि।

जनकस्मरणं चात्र स्यान्मातृ.पितृशब्दयोः। श्रुतेर्द्यावापृथिव्यौ ते अवेयुस्सविता गुरुः।

(येभ्यो माता)

निर्मात्री पृथिवी माता पयो येभ्यस्तु पिन्वते। अदीना द्यौरद्रिबर्हाः पीयुषं पिन्वते मधु।

उक्थशुष्मान् वृष्टिहरान् तानादित्यान् स्तुवीमहि। मनुष्यगन्धदोषो मे विनश्यात् स्वस्तिरस्तु नः।

(एवा पित्रे)

एवं यज्ञेन हविषा नमसा विदधीमहि। पित्रेस्मै विश्वदेवाय पालकाय पुरोधसे।

बृहस्पते वृषन् देव कृपया हि भवेम ते। वीरवन्त.स्सुप्रजसो रयीणां पतयस्सदा।।

मनुष्यगन्धदोषो मे विनश्यात् स्वस्तिरस्तु नः।

(5-2-2024)

वंशीकृष्ण घनपाठी

Ref: ऋग्वेदः, धर्मसिन्धुः

1) ऐतरेय ब्राह्मणम् 3.13.30, 2) शा.सं.म.4.5.50 एवा पित्रे, शा.सं.10.5.63 येभ्यो माता, मनुष्यगन्धदोषनिवारणविधिः – धर्मसिन्धुः।।