वेदनिधिप्रशस्ति ग्रहणम् - अन्तरङ्गाविष्कारः

अत्यन्तमानन्दितमानसोऽहं सम्प्रत्तया वेदनिधिप्रशस्त्या।

श्रीसच्चिदानन्दगुरोः कृपायाः सिक्तोऽभिषिक्तोऽस्मि सुधाप्रपायाम्।। 1

पञ्चाशवर्षे विशता मयेयं पित्रोरुपात्तेन गुरुग्रहेण।

वाचा हृदा व्यञ्जयितुं समर्था वागद्य लभ्येत यदि प्रसन्ना।। 2

श्रीदत्त विजयानन्द-तीर्थ वर्यस्य सौहृदम्।

यथार्थं स्तावकं वाक्यं रुचितं शुभमीरितम्।। 3

वात्सल्येन चिरप्रसादकलिताऽद्वैतस्य बोधेन वा

नित्यं मङ्गलसूनृतेन वचसा धन्यं हि मां कुर्वतः।

कुप्पावेङ्कटकृष्णमूर्ति-विदुष.स्साशीर्कवाक्यं गुरोः

वर्वर्तीह विभूषय.न्मम यशःकायं शिरश्शेखरम्।। 4

पूर्णस्य मे दत्तकुटुम्बसंगात् सतीर्थ्यवृन्दस्य शुभान्तरङ्गात्।

अपेक्षितं किं स्यादिह वच्मि सर्वे भक्ताश्च भूयासुरमोघकृत्याः।। 5

अनन्तविद्या बहुवेदितव्या प्रचोदनं यस्य गुरोस्सकाशात्।

लभ्येत तस्मिन् पथि सुस्थितोऽहं भवानि सच्चिन्मुदमाभजानि।। 6